Loading data... On slow networks this could take a few minutes.
100%

तं वदन्तमिति विष्टरश्रवाः
श्रावयन्नथ समस्तभूभृतः ।
व्याजहार दशनांशुमण्डल-
व्याजहार शबलं दधद्वपुः ॥

मल्लिनाथः तमिति ॥ अथानन्तरं विष्टराविव श्रवसी यस्य स विष्टरश्रवाः कृष्णः । `विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः` इत्यमरः । इति एतादृशं तं वदन्तं नृपम् । समस्तभूभृतः सर्वान्नृपाञ्श्रावयन् दशनांशुमण्डलमिति व्याजोऽपदेशो यस्य तेन&#३२; हारेण मुक्ताहारेण शबलं शारं वपुर्दधद्व्याजहार व्याहृतवान् । अत्र दशनांशुमण्डलस्य व्याजशब्देनासत्यत्वप्रतिपादनादपह्नवभेदः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
तं न्त मि ति वि ष्ट श्र वाः
श्रा न्न स्त भू भृ तः
व्या हा नां शु ण्ड
व्या हा लं द्व पुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.