किं विधेयमनया विधीयतां
त्वत्प्रसादजितयार्थसम्पदा
शाधि शासक जगत्त्रयस्य
मामाश्रवोऽस्मि भवतः सहानुज्-
अः

मल्लिनाथः किमिति ॥ अथवा त्वत्प्रसादेन त्वदनुग्रहेण जितया जयलब्धयाऽनयाऽर्थसंपदा धनसंपदा किं विधेयं किमनुष्ठेयं विधीयतां त्वयैव क्रियताम् । अहं तु न स्वतन्त्र इत्याह-हे जगत्त्रयस्य शासक । न तु ममैवेति भावः । मां शाधि । नियुङ्क्षेत्यर्थः । शासेर्लोटि `हुझल्भ्यो हेर्धिः` (अष्टाध्यायी ६.४.१०१ ) इति धिरादेशः । `झलो झलि` (अष्टाध्यायी ८.२.२६ ) इति सकारलोपः । सहानुजः सानुजः सन् `वोपसर्जनस्य` (अष्टाध्यायी ६.३.८२ ) इति सहशब्दस्य सभावविकल्पः । भवतस्तवाश्रवो विधेयोऽस्मि । `विधेयो विनयग्राही वचने स्थित आश्रवः` इत्यमरः । अत्रानाश्रवस्याश्रवत्वसंबन्धोक्तेरतिशयोक्तिरिति दशश्लोक्याप्रियतरामतेऽतिप्रियतराख्यानात्प्रेयोऽलंकारः । `प्रेयः प्रियतराख्यानम्` इति लक्षणात् । आधुनिकास्तु भावनिबन्धने प्रेयोऽलंकार इति लक्षयन्ति । स चोन्नीतस्तत्र तत्रोन्नेष्यते च
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
किं वि धे या वि धी तां
त्व त्प्र सा जि या र्थ म्प दा
शा धि शा त्त्र स्य मा
मा श्र वो ऽस्मि तः हा नु जः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.