सकले च तत्र गृहमागते हरौ
नगरेऽप्यकालमहमादिदेश सः ।
सततोत्सवं तदिति नूनन्मुन्मुदो
रभसेन विस्मृतमभून्महीभृतः ॥

मल्लिनाथः सकल इति ॥ किंचेति चार्थः । स राजा हरौ कृष्णे गृ २ हमागते सकले तत्र नगरे इन्द्रप्रस्थे । अकाले प्रसिद्धवसन्ताद्यतिरिक्ते काले । महमुत्सवम् । `मह उद्धव उत्सवः` इत्यमरः । आदिदेशाज्ञापयामास । नूनमत्रोत्प्रेक्ष्यते-उन्मुदः कृष्णागमनादुत्कटानन्दस्य महीभृतो धर्मनन्दनस्य तन्नगरं सततमुत्सवा यस्मिंस्तत्सततोत्सवमिति एतद्भसेन त्वरया विस्मृतमभूत् । अन्यथा कथं कृतकरणोपदेश इति भावः
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
ले त्र गृ मा ते रौ
रे ऽप्य का मा दि दे सः
तो त्स वं दि ति नू न्मु न्मु दो
से वि स्मृ भू न्म ही भृ तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.