Loading data... On slow networks this could take a few minutes.
100%

अनवद्यवाद्यलयगामि कोमलं
नवगीतमप्यनवगीततां दधत् ।
स्फुटसात्विकाङ्गिकमनृत्यदुज्ज्वलं
सविलासलासिकविलासनीजनः ॥

मल्लिनाथः अनवद्येति ॥ सविलासो विलासयुक्तो लासिकविलासिनीजनो नर्तकस्त्रीजनः सविलासलासिकविलासिनीजनः । `नर्तकीलासिके समे` इत्यमरः । अनवद्यमगर्ह्यं यत् वाद्यं वंशादि तस्य लयः साम्यं गीतस्य समकालत्वं तद्गामि । द्रुतविलम्बादिमानानुवर्तीत्यर्थः । `तालः कालक्रियामानं लयः साम्यम्` इत्यमरः । नवं गीतं यस्य&#३२; तन्नवगीतं तथाप्यनवगीततां दधदिति विरोधेऽपिशब्दः । अविगर्हितत्वं दधदित्यविरोधाद्विरोधाभासः । `अवगीतं तु निर्वादे मुहुर्गीतेऽविगर्हिते` इति विश्वः । सत्त्वमन्तःकरणं तेन निवृत्तं नृत्यं सात्त्विकम् । अङ्गं हस्तादि तेन निवृत्तमाङ्गिकम् । `निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके` इत्यमरः । ते स्फुटे यस्मिंस्तत्तथोक्तम् । वाचिकस्याप्युपलक्षणमेतत् । यथाह भगवान्भरतः-`पदार्थाभिनयो नाम ज्ञेयो वागङ्गसत्त्वजः` इति । अत एव कालिदासोऽपि `अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्तमुपधाय दर्शयन्` (रघुवंशे १९॥३६) इति । कोमलं मधुरनृत्यमुज्ज्वलमुद्धतं चानृत्यत् । तथोक्तं दशरूपके-भावाश्रयं तु नृत्यं स्यान्नृत्तं ताललयाश्रयम् । आद्य पदार्थाभिनयो मार्गादेशी तथापरः ॥ मधुरोद्धतभेदेन तद्वयं द्विविधं पुनः । लास्यदण्डकरूपेण नाटकाद्युपचारकम् । ११ (१-९, १०) इति
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
द्य वा द्य गा मि को लं
गी प्य गी तां धत्
स्फु सा त्वि का ङ्गि नृ त्य दु ज्ज्व लं
वि ला ला सि वि ला नी नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.