Loading data... On slow networks this could take a few minutes.
100%

सुतरां सुखेन सकलक्लमच्छिदा
सनिदाधमङ्गमिव मातरिश्वना ।
यदुनन्दनेन तदुदन्वतः पयः
शसिनेव राजकुलमाप नन्दथुम् ॥

मल्लिनाथः सुतरामिति ॥ तद्राजकुलं कुरुकुलम् । सकलक्लमच्छिदा सकलदुःखहारिणा यदुनन्दनेन कृष्णेन सनिदाघं ससंतापमङ्गं मातरिश्वना वायुनेव उदकान्यस्य सन्तीत्युदन्वानुदधिः । `उदन्वानुदधौ च` (अष्टाध्यायी ८.२.१३ ) इति निपातः । तस्य पयो जलं शशिनेव सुतरामत्यन्तम् । `किमेत्तिङव्यय-` (अष्टाध्यायी ५.४.११ ) इत्यामुप्रत्ययः । सुखेनाक्लेशेन नन्दथुमानन्दमाप । `स्यादानन्दथुरानन्दः` इत्यमरः । `ट्वितोऽथुच्` (अष्टाध्यायी ३.३.८९ ) इत्यथुच्प्रत्ययः । मालोपमा
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
सु रां सु खे क्ल च्छि दा
नि दा ङ्ग मि मा रि श्व ना
दु न्द ने दु न्व तः यः
सि ने रा कु मा न्द थुम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.