Loading data... On slow networks this could take a few minutes.
100%

व्रजतोरपि प्रणयपूर्वमेकता-
मसुरारिपाण्डुसुतसैन्ययोस्तदा ।
ररुषे विषाणिभिरनुक्षणंमिथो
मदमूढबुद्धिषु विवेकिता कुतः ॥

मल्लिनाथः व्रजतोरिति ॥ तदा तस्मिन्समये असुरारिपाण्डुसुतसैन्ययोः हरिपार्थसैन्ययोः प्रणयपूर्व स्नेहपूर्वकमेकतामैक्यं व्रजतोर्गच्छतोः सतोरपि विषाणिभिरुभयसेनावर्तिभिः गजैरनुक्षणं प्रतिक्षणं मिथः परस्परं रुरुषे चुक्रुधे । भावे लिट् । तथा हि—मदेन मूढबुद्धिषु विपरीतप्रज्ञेषु प्राणिषु विवेकिता कार्याकार्यविचारिता कुतः । नास्त्येवेत्यर्थः । अथ तेषां स्वामिसौहार्देऽपि स्वयं विरोधिता न दोषायेति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
व्र तो पि प्र पू र्व मे ता
सु रा रि पा ण्डु सु सै न्य यो स्त दा
रु षे वि षा णि भि नु क्ष णं मि थो
मू बु द्धि षु वि वे कि ता कु तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.