अवलोक एव नृपतेः स्म दूरतो
रभसाद्रथादवतरीतुमिच्छतः ।
अवतीर्णवान्प्रथममात्मना हरि-
र्विनयं विशेषयति सम्भ्रमेण सः ॥

मल्लिनाथः अवलोक इति ॥ दूरतो दूरादवलोके हरेर्दर्शन एव रभसाद्धर्षाद्रथादवतरीतुमवरोढुम् । `वृतो वा` (अष्टाध्यायी ७.२.३८ ) इति विकल्पाद्दीर्घः । इच्छतो नृपतेर्धर्मराजात्प्रथमम् । तदवतरणात्पूर्वमेवेत्यर्थः । आत्मना स्वयमेव । प्रकृत्यादित्वात्तृतीया । अवतीर्णवान् रथादवरूढः सन् । `निष्ठा` (अष्टाध्यायी ३.२.१०२ ) इति तरतेः क्तवतुप्रत्ययः `ऋत इद्धातोः` (अष्टाध्यायी ७.१.१०० ) इतीत्वं `र्वोरूपधाया दीर्घ-` (अष्टाध्यायी ८.२.७६ ) इति दीर्धे `रदाभ्याम्-` (२।४२) इति निष्ठानत्वे `रषाभ्याम्-` (४१) इति णत्वम् । स हरिः संभ्रमेण त्वराविशेषेण विनयं अनौद्धत्यं विशेषयति स्मातिशाययति स्म । एतेन हरेः पूज्यविषयो रत्याख्यो भावो ध्वन्यते
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
लो नृ तेः स्म दू तो
सा द्र था री तु मि च्छ तः
ती र्ण वा न्प्र मा त्म ना रि
र्वि यं वि शे ति म्भ्र मे सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.