द्रुतमध्वनन्नुपरि पाणिवृत्तयः
पणवा इवाश्वचरणक्षता भुवः ।
ननृतुश्च वारिधरधीरवारण-
ध्वनिहृष्टकूजितकलाः कलापिनः ॥

मल्लिनाथः द्रुतमिति ॥ अश्वचरणक्षतास्तुरगखुरताडिता भुव उपरि पृष्ठभागे पाणिवृत्तयः करताडनानि येषां ते उपरिपाणिवृत्तयः पणवा वाद्यविशेषा इवेत्युपमा । द्रुतं द्रुततरमेवाध्वनन् ध्वनन्ति स्म । द्रुतं शीघ्रम्` इत्यमरः । वारिधरशब्देन तद्गर्जितं लक्ष्यते । तद्वद्धीरैर्गम्भीरैः वारणध्वनिभिर्गजबृंहणैर्हृष्टा अत एव कूजितकलाः । कलकूजिता इत्यर्थः । ततो विशेषणसमासः । कलापा येषां सन्तीति कलापिनो बर्हि&#३२; णश्च ननृतुः नृत्यन्ति स्म । अत्रोपमयोः संसृष्टिः । वारिधरोपमया कलापिनां गजबृंहितेषु घनगर्जितभ्रान्तिमन्तरेण नृत्यासंभवाभ्द्रान्तिमदलंकारो व्यज्यत इत्यलंकारेणालंकारध्वनिः
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
द्रु ध्व न्नु रि पा णि वृ त्त यः
वा वा श्व क्ष ता भु वः
नृ तु श्च वा रि धी वा
ध्व नि हृ ष्ट कू जि लाः ला पि नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.