सुखिनः पुरोऽभिमुखतामुपागतैः
प्रतिमासु यत्र गृहरत्नभित्तिषु ।
नवसङ्गमैरबिभरुः प्रियाजनैः
प्रमदं त्रपाभरपराङ्मुखैरपि ॥

मल्लिनाथः सुखिन इति ॥ यत्र सभायां नवः संगमो येषां तैर्नवसंगमैरत एव त्रपाभरेण पराङ्मुखैर्विमुखैरपि गृहाणां रत्नभित्तिषु प्रतिमासु तत्संक्रान्तप्रतिबिम्बेषु पुरोऽग्रेऽभिमुखतामुपागतैः प्रियाजनैः कान्ताजनैः सुखिनो भोगिनः प्रमदं हर्षमबिभरुः बिभ्रति स्म । `भृञो लङि `श्लौ` (६।१|१०) इति द्विर्भावे `सिजभ्यस्तविदिभ्यश्च` (अष्टाध्यायी ३.४.१०९ ) इति झेर्जुसादेशः । स्त्रीणां वैमुख्येऽपि तत्प्रतिबिम्बाभिमुख्यात्पुंसां&#३२; सुखमेव, स्त्रीणां तु उभयत्रापि क्लिष्टमित्यर्थः । अत्र वैमुख्येऽप्याभिमुख्यमिति विरोधस्य प्रतिमास्विति निरासाद्विरोधाभासोऽलंकारः
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
सु खि नः पु रो ऽभि मु ता मु पा तैः
प्र ति मा सु त्र गृ त्न भि त्ति षु
ङ्ग मै बि रुः प्रि या नैः
प्र दं त्र पा रा ङ्मु खै पि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.