तृणवाञ्छया मुहुरवाञ्चितानना-
न्निचयेषु यत्र हरिताश्मवेश्मनाम् ।
रसनाग्रलग्नकिरणाङ्कुराञ्जनो
हरिणान्गृहीतकवलानिवैक्षत ॥

मल्लिनाथः तृणेति ॥ यत्र सभायां हरिताश्मनां मरकतमणीनां गृहाणाम् । `गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः` इत्यमरः । निचयेषु सङ्घेषु तृणवाञ्छया तृणाशया मुहुरवाञ्चिताननान्नमितमुखान् अत एव रसनाग्रेषु लग्नाः किरणा अङ्कुरा इव येषां ते तान् । अत एव गृहीतकवलानुपात्ततृणग्रासानिव स्थितान् हरिणान् जन ऐक्षत ईक्षितवान् । ईक्षतेर्लङि `आडजादीनाम्` (६|४|७२) इत्याट् `आटश्च` (६।१|९०) इति वृद्धिः । अत्र तृणवाञ्छयेति हरिणानां मरकतेषु तृणभ्रान्तेर्भ्रान्तिमदलंकारः । तन्मूला चेयं गृहीतकवलत्वोत्प्रेक्षेति संकरः
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
तृ वा ञ्छ या मु हु वा ञ्चि ता ना
न्नि ये षु त्र रि ता श्म वे श्म नाम्
ना ग्र ग्न कि णा ङ्कु रा ञ्ज नो
रि णा न्गृ ही ला नि वै क्ष
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.