अपदान्तरं च परितः क्षितिक्षिता-
मपतन्द्रुतभ्रमितहेमनेमयः ।
जविमारुताञ्चितपरस्परोपम-
क्षितिरेणुकेतुवसनाः पताकिनः ॥

मल्लिनाथः अपदेति ॥ द्रुतं शीघ्रं भ्रमिताः परिवर्तिताः । हेमनेमयः कनकप्रधयो येषां ते। `चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्` इत्यमरः । अत एव जविना वेगवता मारुतेनाञ्चितानि कम्पितानि परस्परमुपमान्तीति परस्परोपमान्यन्योन्यसदृशानि क्षितिरेणुकेतुवसनानि स्वोत्थापितभूरेणवः स्वारोपितध्वजपटाश्च येषां ते, क्षितिं क्षियन्तीशते इति क्षितिक्षितः क्षितीशाः । "क्षि ऐश्वर्ये निवासे च` इति धातोस्तौदादिकात्क्विपि तुक् । क्षितिपतिष्वेवासौ क्षितिक्षिदिति भट्टमल्लः । तेषां संबन्धिनः पताकाः सन्तीति पताकिनो रथाः । व्रीह्यादित्वादिनिः । परितः सर्वतः नास्ति पदस्यान्तरमवकाशो यस्मिन्कर्मणि तदपदान्तरं संसक्तं यथा तथा । `संसक्ते त्वव्यवहितमपदान्तरमित्यपि` इत्यमरः । अपतन्नधावन् । अत्र स्वराष्ट्रवर्णने रेणूनां केतूनां च प्रकृतत्वात्केवलप्रकृतास्पदा तुल्ययोगिता । तथा च परस्परोपमेति विशेषणाद्रेणुवत्केतवः, केतुवच्च रेणव इत्युपमेयोपमया के रेणवः के वा केतव इति संशयश्च व्यज्यत इत्यलंकारेणालंकारध्वनिः
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
दा न्त रं रि तः क्षि ति क्षि ता
न्द्रु भ्र मि हे ने यः
वि मा रु ता ञ्चि स्प रो
क्षि ति रे णु के तु नाः ता कि नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.