वलयार्पितासितमहोपलप्रभा-
बहुलीकृतप्रतनुरोमराजिना ।
हरिवीक्षणाक्षणिकचक्षुषान्यया
करपल्लवेन गलदम्बरं दधे ॥

मल्लिनाथः वलयेति ॥ हरिवीक्षणेऽक्षणिकचक्षुषा स्थिरदृष्ट्या । विस्मयादराभ्यां स्तिमितनेत्रयेत्यर्थः । अन्यया स्त्रिया गलत्सुखपारवश्यात्स्रंसमानमम्बरं वलयेष्वर्पिताः खचिता ये असितमहोपला नीलमहामणयः । `उपलौ मणिपाषाणौ` इति विश्वः । तेषां प्रभाभिर्बहुलीकृता सान्द्रीकृता प्रतनुः सूक्ष्मा रोमराज़िर्यस्य तेन करपल्लवेन दधे धृतम् । अयं च तात्कालिकविहारलक्षणविलासः । अत्रेन्द्रनीलप्रभाणां रोमावलीबहुलीकरणोक्त्या प्रभास्वपि रोमराजित्वप्रतीतेर्भ्रान्तिमदलंकारो व्यज्यते इति वस्तुनालंकारध्वनिः
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
या र्पि ता सि हो प्र भा
हु ली कृ प्र नु रो रा जि ना
रि वी क्ष णा क्ष णि क्षु षा न्य या
ल्ल वे म्ब रं धे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.