निजसौरभभ्रमितभृङ्गपक्षति-
व्यजनानिलक्षयितघर्मवारिणः ।
अभिशौरि काचिदनिमेषदृष्टिना
पुरदेवतेव वपुषा व्यभाव्यत ॥

मल्लिनाथः निजेति ॥ काचित्स्त्री निजेनात्मीयेन सौरभेण सौगन्ध्येन भ्रमितानां भ्रमणं कारितानां भृङ्गाणां पक्षतयः पक्षमूलानि । `स्त्री पक्षतिः पक्षमूलम्` इत्यमरः । `पक्षात्तिः` (अष्टाध्यायी ५.२.१५ ) इति तिप्रत्ययः । ता एव व्यजनानि इति रूपकं स्वेदहरणलिङ्गात् । तासामनिलेन क्षयितं नाशितं घर्मवारि स्वेदोदकं यस्य तेन अभिशौरि शौरेरभिमुखम् । आभिमुखेऽव्ययीभावः । अनिमेषा दृष्टिर्यस्य तेन वपुषा निमित्तेन पुरदेवतेव इन्द्रप्रस्थाधिदेवतेव व्यभाव्यत विभाविता । तर्कितेति यावत् । अनिमेषत्वं चेष्टदर्शनजन्यजाड्यसंचार्यनुभावः । `अप्रतिपत्तिर्जडता स्वादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णीभावादयस्तत्र ॥` इति लक्षणात् । इहाङ्गसौरभानिमेषत्वाभ्यां पुराधिवासाच्च पुराधिदेवतात्वमुत्प्रेक्ष्यते इत्युपात्तगुणनिमित्ता जातिस्वरूपोत्प्रेक्षा । तया चास्या जात्याः पद्मिनीत्वं व्यज्यते इत्यलंकारेण वस्तुध्वनिः । निजसौरभेत्यनेन `कमलमुकुलमृद्वी फुल्लराजीवगन्धिः सुरतवयसि यस्याः सौरभं दिव्यमङ्गम्` इत्यादिपद्मिनीलक्षणोपलक्षणादिति । विपुलेनेत्यादिश्लोकोक्ताः षडपि नायिकाः प्रौढाः साधारणाश्च तत्र त्रासासंभवात् । अन्यथासां कृतचेष्टावर्णनानौचित्याच्चेत्यलमतिप्रपञ्चेन
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
नि सौ भ्र मि भृ ङ्ग क्ष ति
व्य ना नि क्ष यि र्म वा रि णः
भि शौ रि का चि नि मे दृ ष्टि ना
पु दे ते पु षा व्य भा व्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.