नलिनान्तिकोपहितपल्लवश्रिया
व्यवधाय चारु मुखमेकपाणिना ।
स्फुरिताङ्गुलीविवरनिःसृतोल्लस-
द्दशनप्रभाङ्गुरमजृम्भतापरा ॥

मल्लिनाथः नलिनेति ॥ अपरा स्त्री नलिनान्तिके उपहितस्य पल्लवस्य श्रीरिव श्रीर्यस्य&#३२; तेन । मुखसंनिधानादिति भावः । एकपाणिना चारु निसर्गसुन्दरं मुखं व्यवधाय तिरोधाय स्फुरदङ्गुलीविवरनिःसृता उज्वलाङ्गुल्यन्तरालनिर्गता अत एवोल्लसन्त उत्सर्पन्तो दशनप्रभा एवाङ्कुरा यस्मिन्कर्मणि तद्यथा यथा अजृम्भत । जृम्भमाणस्य विवरणं तच्चेष्टवस्तुसाक्षात्कारकृतजाड्यानुभावः । अत्र नलिनपल्लवयोरसंबन्धयोः संभावनया संबन्धाभिधानादतिशयोक्तिः
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
लि ना न्ति को हि ल्ल श्रि या
व्य धा चा रु मु मे पा णि ना
स्फु रि ता ङ्गु ली वि निः सृ तो ल्ल
द्द प्र भा ङ्गु जृ म्भ ता रा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.