Loading data... On slow networks this could take a few minutes.
100%

परिपाटलाब्जदलचारुणासकृ-
च्चलिताङ्गुलीकिसलयेन पाणिना ।
सशिरःप्रकम्पमपरा रिपुं मधो-
रनुदीर्णवर्णनिभृतार्थमाह्वयत् ॥

मल्लिनाथः परीति ॥ अपरा स्त्री परिपाटलाजदलचारुणा रक्ताब्जपत्ररुचिरेण असकृन्मुहुश्चलितान्यङ्गुल्यः किसलयानीवाङ्गुलीकिसलयानि यस्य तेन पाणिना सशिरःप्रकम्पं शिरःकम्पयुक्तं यथा तथा मधो रिपुं हरिमनुदीर्णवर्णमनुच्चारिताक्षरम् अत एव निभृतार्थं परेषामप्रकाशितार्थं च यत्तदनुदीर्णवर्णनिभृतार्थं यथा तथा आह्वयत् । परप्रकाशनभयादव्याहरन्ती चेष्टयैवाह्वानं कृतवतीत्यर्थः । अत्रापि पूर्ववद्विलासोपमे भावालंकारौ
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
रि पा ला ब्ज चा रु णा कृ
च्च लि ता ङ्गु ली कि ये पा णि ना
शि रः प्र म्प रा रि पुं धो
नु दी र्ण र्ण नि भृ ता र्थ मा ह्व यत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.