अधिकोन्नमद्घनपयोधरं मुहुः
प्रचलत्कलापिकलशङ्खकस्वना ।
अभिकृष्णमङ्गुलिमुखेन काचन
द्रुतमेककर्णविवरं व्यघट्टयत् ॥

मल्लिनाथः अधिकेति ॥ काचन काचित् कान्ता अभिकृष्णं कृष्णाभिमुखम् । आभिमुखेऽव्ययीभावः । अधिकं भुजोन्नमनाभृशमुन्नमन् घनः कठिणः पयोधरः स्तनो यस्याः सा मुहुः प्रचलतो नृत्यतः कलापिनो बर्हिण इव कलो मधुरः शङ्खकस्वनो वलयध्वनिर्यस्याः सा सती । `शङ्खकं वलये कम्बौ` इति विश्वः । अङ्गुलिमुखेनानाङ्गुल्यग्रेणैकस्य कर्णस्य विवरं रन्धं द्रुतं शीघ्रं व्यघट्टयत् । कण्डूविनोदार्थमिवाताडयत् । वस्तुतस्तु भावाविष्करणार्थमेवेति भावः । अयं च पूर्ववद्विलास एव । कलापिकलेत्युपमा
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
धि को न्न द्घ यो रं मु हुः
प्र त्क ला पि ङ्ख स्व ना
भि कृ ष्ण ङ्गु लि मु खे का
द्रु मे र्ण वि रं व्य ट्ट यत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.