विपुलेन सागरशयस्यकुक्षिणा
भुवनानि यस्य पपिरे युगक्षये ।
मदविभ्रमासकलया पपे पुनः
स पुरस्त्रियैकतमयैकया दृशा ॥

मल्लिनाथः विपुलेनेति ॥ युगक्षये कल्पान्ते । सागरे शेते इति सागरशयस्य । `अधिकरणे शेतेः` (अष्टाध्यायी ३.२.१५ ) इत्यच्प्रत्ययः । `शयवासवासिष्वकालात्` (अष्टाध्यायी ६.३.१८ ) इति विकल्पादलुगभावः । यस्य हरेर्विपुलेन कुक्षिणा भुवनानि पपिरे पीतानि । पिबतेः कर्मणिं लिट् । स हरिरेकतमया पुरस्त्रिया पुनः कयाचित्पौराङ्गनया मदविभ्रमेण मदविकारेणासकलया असमग्रया एकया दृशा पपे पीतः । सतृष्णं दृष्ट इत्यर्थः । कुक्षिकोणनिविष्टनिखिलविष्टपस्य हरेर्महत आधेयस्यात्यल्पतरैककान्ताकटाक्षकोणाधारत्वोक्त्या चमत्कारोधिकालंकारः । `आधाराधेययोरानुरूप्याभावोsधिको मतः` इति लक्षणात् । अयं च तात्कालिकविकारात्मा विलासाख्यो भावो यत्कटाक्षवीक्षणम् । `तात्कालिको विशेषः स्याद्विलासोऽङ्गक्रियादिषु` (२।३०) इति दशरूपकात्
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
वि पु ले सा स्य कु क्षि णा
भु ना नि स्य पि रे यु क्ष ये
वि भ्र मा या पे पु नः
पु स्त्रि यै यै या दृ शा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.