रभसप्रवृत्तकुरुचक्रदुन्दुभि-
ध्वनिभिर्जनस्य बधिरीकृतश्रुतेः ।
समवादि वक्तृभिरभीष्टसङ्कथा-
प्रकृतार्थशेषमथ हस्तसंज्ञया ॥

मल्लिनाथः रभसेति ॥ रभसो हर्षः । `रभसो वेगहर्षयोः` इति विश्वः । तेन प्रवृत्तैः कुरुचक्रदुन्दुभिध्वनिभिः कौरवसेनातूर्यघोषैः, बधिरीकृतश्रुतेर्विकलीकृतश्रोत्रेन्द्रियस्य श्रोतृजनस्य, वक्तृभिः कथकैरभीष्टसंकथास्विष्टालापेषु प्रकृतस्य वक्तुं प्रक्रान्तस्यार्थस्याभिधेयस्य शेषं वक्तव्यावशिष्टम् , अथ बाधिर्यानन्तरं हस्तसंज्ञया हस्तसंकोचेन समवादि संवादितम् । श्रीकृष्णस्यागमनसंतोषात्तथा दुन्दुभीनाजघ़ुः यथा कण्ठोक्तशेषं करसंज्ञया निष्पाद्यत इत्यर्थः । अत्र बधिरीकरणस्य जनविशेषणद्वारा हस्तसंज्ञया वदनहेतुत्वात्काव्यलिङ्गभेदः
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
प्र वृ त्त कु रु क्र दु न्दु भि
ध्व नि भि र्ज स्य धि री कृ श्रु तेः
वा दि क्तृ भि भी ष्ट ङ्क था
प्र कृ ता र्थ शे स्त सं ज्ञ या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.