अधिरूढया निजनिकेतमुच्चकैः
पवनावधूतवसनान्तयैकया ।
विहितोपशोभमुपयाति माधवे
नगरं व्यरोचत पताकयेव तत् ॥

मल्लिनाथः अधीति ॥ उच्चकैर्निजनिकेतं स्वसौधमधिरूढया आरूढवत्या पवनेनावधूतः कम्पितो वसनान्तो वस्त्राञ्चलो यस्यास्तया एकया कदाचिदङ्गनया हेतुना तन्नगरमिन्द्रप्रस्थं माधवे उपयात्यागच्छति । यातेर्लटः शत्रादेशः। पताकया वैजयन्त्या विहितोपशोभं कृतशोभमिवालंकृतमिवेत्युत्प्रेक्षा । व्यरोचत व्यराजत । कृत्स्नस्यापि नगरस्य स्वयं पताकेव बभावित्युत्प्रेक्षा । तस्याः सकलपौराङ्गनातिशायि लावण्यं व्यज्यत` इत्यलंकारेण वस्तुध्वनिः । अत्रापि प्रासादारोहणं पूर्मवत्कुतूहलमेव
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
धि रू या नि नि के मु च्च कैः
ना धू ना न्त यै या
वि हि तो शो मु या ति मा वे
रं व्य रो ता ये तत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.