करयुग्मपद्ममुकुलापवर्जितैः
प्रतिवेश्म लाजकुसमैरवाकिरन् ।
अवदीर्णशुक्तिपुटमुक्तमौक्तिक-
प्रकरैरिव प्रियरथाङ्गमङ्गनाः ॥

मल्लिनाथः करेति ॥ प्रतिवेश्म वेश्मनि । विभक्त्यर्येऽव्ययीभावः । अङ्गनाः पुरंध्र्यः । करयुग्मान्यञ्जलयस्तानि पद्ममुकुलानीवेत्युपमितसमासः । तैरपवर्जितैरावजितैरत एवावदीर्णैर्विभिन्नैः शुक्तिपुटैः शुक्तिकोशैर्मुक्ता उत्सृष्टा ये मौक्तिकप्रकरा मुक्तानिकरास्तैरिव स्थितैरित्युत्प्रेक्षा । लाजाः, कुसुमानीव तैर्लाजकुसुमैः । आचारलाजैरित्यर्थः । प्रियं रथाङ्गं चक्रं यस्य तं प्रियरथाङ्गं चक्रिणम् । हरिमित्यर्थः । अवाकिरन व्याक्षिपन् , मङ्गलार्थमित्यर्थः
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
यु ग्म द्म मु कु ला र्जि तैः
प्र ति वे श्म ला कु मै वा कि रन्
दी र्ण शु क्ति पु मु क्त मौ क्ति
प्र रै रि प्रि था ङ्ग ङ्ग नाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.