Loading data... On slow networks this could take a few minutes.
100%

व्यचलन्विशङ्कटकटीरकस्थली-
शिखरस्खलन्मुखरमेखलाकुलाः ।
भवनानि तुङ्गतपनीयसंक्रम-
क्रमणक्वणत्कनकनूपुराः स्त्रियः ॥

मल्लिनाथः व्यचलन्निति ॥ विशङ्कटानां विशालानां कटीरकस्थलीनां कटिभागानां शिखरेष्वग्रेषु स्खलन्त्यो लुठन्त्योऽत एव मुखराः शब्दायमानास्ताभिर्मेखलाभिराकुलाः तुङ्गेषु तपनीयसंक्रमेषु कनकसोपानेषु क्रमणेन क्वणन्तः कनकनूपुरा यासां ताः स्त्रियः भवनानि हर्म्याणि व्यचलन् । तत्र गत्वारोहन्नित्यर्थः । चलेर्गत्याल्लङ् । एतदपि पूर्ववदतिकुतूहलमेव । वृत्त्यनुप्रासोऽलंकारः
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
व्य न्वि ङ्क टी स्थ ली
शि स्ख न्मु मे ला कु लाः
ना नि तु ङ्ग नी सं क्र
क्र क्व त्क नू पु राः स्त्रि यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.