Loading data... On slow networks this could take a few minutes.
100%

व्यतनोदपास्य चरणं प्रसाधिका-
करपल्लवाद्रसवशेन काचन ।
द्रुतयावकैकपदचित्रितावनिं
पदवीं गतेव गिरिजा हरार्धताम् ॥

मल्लिनाथः व्यतनोदिति ॥ काचन स्त्री रसवशेन हरिवीक्षणपारतन्त्र्येण । `गुणे रागे द्रवे रसः` इत्यमरः । प्रसाधिकाया अलंकर्त्र्याः करपल्लवाञ्चरणमपास्य असमाप्तावेवाक्षिप्य । हरार्धतां हरस्यार्धाङ्गतां गता । अन्यथैकपादालक्तकासंभवादिति भावः । गिरिजा गौरीव । द्रव(द्रुत)यावकेनालक्तकेन एकपदेन चित्रिता चित्रवर्णीकृता अवनिर्यस्यास्तां पदवीं व्यतनोदकरोत् । उपमालंकारः । एषापि कुतूहलाख्या चेष्टा रम्यदिदृक्षाजनितचापलरूपत्वादिति
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
व्य नो पा स्य णं प्र सा धि का
ल्ल वा द्र शे का
द्रु या कै चि त्रि ता निं
वीं ते गि रि जा रा र्ध ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.