Loading data... On slow networks this could take a few minutes.
100%

रभसेन हारपददन्तकाञ्चयः
प्रतिमूर्धजं निहितकर्णपूरकाः ।
परिवर्तिताम्बरयुगाः समापत-
न्वलयीकृतश्रवणपूरकाः स्त्रियः ॥

मल्लिनाथः रभसेनेति ॥ रभसेन त्वरया हारपदे मुक्तादामस्थाने वक्षसि दत्तकाञ्चयो न्यस्तरशनाः प्रतिमूर्धजं मूर्धजेषु केशेषु । विभक्त्यर्थेऽव्ययीभावः । विहिताः कर्णपूरकाः कर्णावतंसा याभिस्ताः । परिवर्तितं विपर्यासेन धृतमम्बरयुगं उत्तराधरवाससी याभिस्ताः । परिधानीकृतमुत्तरीयं कुचांशुकं च जघने दत्तमित्यर्थः । वलयीकृताः कंकणीकृताः श्रवणपूरकाः कुण्डलानि याभिस्ताः स्त्रियः समापतन्नधावन् । एतेन विभ्रमाख्या चेष्टोक्ता । `विभ्रमस्वरया काले भूषास्थानविपर्यये` इति लक्षणात् । स च भ्रममूल इति भ्रान्तिमदलंकारो व्यज्यते
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
से हा न्त का ञ्च यः
प्र ति मू र्ध जं नि हि र्ण पू काः
रि र्ति ता म्ब यु गाः मा
न्व यी कृ श्र पू काः स्त्रि यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.