Loading data... On slow networks this could take a few minutes.
100%

यदुभर्तुरागमनलब्धजन्मनः
प्रमदादमानिव पुरे महीयसि ।
सहसा ततः स सहितोऽनुजन्मभि-
र्वसुधाधिपोऽभिमुखमस्यनिर्ययौ ॥

मल्लिनाथः यदुभर्तुरिति ॥ ततो हरेर्यमुनोत्तरणश्रवणानन्तरं स वसुधाधिपो धर्मराजः यदुभर्तुर्हरेरागमनेन लब्धजन्मनो लब्धोदयात् । जातादित्यर्थः । प्रमदाद्धर्षात् । `प्रमदसंमदौ हर्षे` (अष्टाध्यायी ३.३.६८ ) इत्यप्प्रत्ययान्तो निपातः । महीयस्यतिविपुलेऽपि पुरे &#३२; अमान् हर्षकृतशरीरवृद्धेरिवापरिमितविकासः सन्नित्युत्प्रेक्षा । सहसा अनुजन्मभिरनुजैः सहितोऽस्य हरेरभिमुखं निर्ययौ । नगरान्निर्गत इत्यर्थः
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
दु र्तु रा ब्ध न्म नः
प्र दा मा नि पु रे ही सि
सा तः हि तो ऽनु न्म भि
र्व सु धा धि पो ऽभि मु स्य नि र्य यौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.