प्रतिनादपूरितदिगन्तरः पत-
न्पुरगोपुरं प्रति स सैन्यसागरः ।
रुरुचे हिमाचलगुहामुखोन्मुखः
पयसां प्रवाह इव सौरसैन्धवः ॥

मल्लिनाथः प्रतीति ॥ प्रतिनादैः प्रतिध्वानैः पूरितं व्यासं दिशामन्तरमन्तरालं येन सः पुरगोपुरं पुरद्वारं प्रति । `गोपुरं तु पुरद्वारि द्वारमात्रे नपुंसकम्` इति विश्वः । एवं च न परशब्दस्य पौनरुक्त्यशङ्का । पतन धावन् स सैन्यसागरः सेनासमुद्रः हिमाचलगुहामुखस्योन्मुखोऽभिमुखः सुरसिन्धोर्गङ्गाया अयं सौरसैन्धवः । `हृद्भगसिन्ध्वन्ते पूर्वपदस्य च` (अष्टाध्यायी ७.३.१९ ) इत्युभयपदवृद्धिः । पयसां प्रवाह इव रुरुचे रेजे । उपमालंकारः
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
प्र ति ना पू रि दि न्त रः
न्पु गो पु रं प्र ति सै न्य सा रः
रु रु चे हि मा गु हा मु खो न्मु खः
सां प्र वा सौ सै न्ध वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.