मखमाक्षितुं क्षितिपतेरुपेयुषां
परितः प्रकल्पितनिकेतनं बहिः ।
उपरुध्यमानमिव भूभृतां बलैः
पुटभेदनं दनुसुतारिरैक्षत ॥

मल्लिनाथः मखमिति ॥ क्षितिपतेर्धर्मराजस्य मखं क्र्ततुमीक्षितुमुपेयुषां ततस्तत आगतानां भूभृतां राज्ञां बलैः सैन्यैः बहिः परितः प्रकल्पितानि निर्मितानि निकेतनानि निवासा यस्य तदत एवोपरुध्यमानं शत्रुसेनावेष्ट्यमानमिव स्थितमित्युत्प्रेक्षा । पुटभेदनं पत्तनं मयकृतमिन्दप्रस्थम् । `पत्तनं पुटभेदनम्` इत्यमरः । दनुसुतारिर्दानवहन्ता हरिः पुरोऽग्रे ऐक्षतापश्यत्
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
मा क्षि तुं क्षि ति ते रु पे यु षां
रि तः प्र ल्पि नि के नं हिः
रु ध्य मा मि भू भृ तां लैः
पु भे नं नु सु ता रि रै क्ष
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.