गतयोरभेदमिति सैन्ययोस्तयो-
रथ भानुतजह्नुतनयाम्भसोरिव ।
प्रतिनादितामरविमानमानकै-
र्नितरां मुदा परमयेव दध्वने ॥

मल्लिनाथः गतयोरिति ॥ इति इत्थं गतयोः सैन्ययोः भानुजह्वतनये यमुनाजाह्नव्यौ तयोरम्भसी प्रवाहौ तयोरिवाभेदमैक्यं गतयोः सतोः । `यस्य च भावेन भावलक्षणम्` (अष्टाध्यायी २.३.३७ ) इति सप्तमी । एतेन सैन्ययोरवार्यत्वमुक्तम् । अथ सैन्यमेलनानन्तरम् । आनकैर्मङ्गलदुन्दुभिभिः परमया मुदेव हर्षेणेवेत्युत्प्रेक्षा । प्रतिनादितानि प्रतिध्वनितान्यमरविमानानि द्रष्टुमागत्याम्बरस्थितानि विमानानि देवयानानि यस्मिन्कर्मणि तद्यथा तथा नितरां दध्वने ध्वनितम् । भावे लिट्
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
यो भे मि ति सै न्य यो स्त यो
भा नु ह्नु या म्भ सो रि
प्र ति ना दि ता वि मा मा कै
र्नि रां मु दा ये ध्व ने
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.