मुदितैस्तदेति दितिजन्मनांरिपा-
वविनीयसम्भ्रमविकासिभक्तिभिः
उपसेदिवद्भिरुपदेष्टरीव
तैर्ववृते विनीतमविनीतशासिभ्-
इः
मुदितैस्तदेति दितिजन्मनांरिपा-
वविनीयसम्भ्रमविकासिभक्तिभिः
उपसेदिवद्भिरुपदेष्टरीव
तैर्ववृते विनीतमविनीतशासिभ्-
इः
वविनीयसम्भ्रमविकासिभक्तिभिः
उपसेदिवद्भिरुपदेष्टरीव
तैर्ववृते विनीतमविनीतशासिभ्-
इः
मल्लिनाथः
मुदितैरिति ॥ तदा तस्मिन्समये इतीत्थं मुदितैर्हृष्टैरविनीयोऽकल्कः । अकपट इति यावत् । यः संभ्रम आदरस्तेन विकासिनी स्फुटीभवन्ती भक्तिर्येषां तैः । `विपुयविनीयजित्या मुञ्जकल्कहलिषु` (अष्टाध्यायी ३.१.११७ ) इति कल्कार्थे निपातः । नपुंसकपूर्वपदः स्त्रीलिङ्गपूर्वपदो वा बहुव्रीहिः। अविनीतं शासतीत्यविनीतशासिभिः दुष्टशिक्षकैः पाण्डवैः दितिजन्मनां रिपौ कृष्णविषये उप समीपे सीदन्ति स्मेत्युपसेदिवांसोऽन्तेवासिनः । `भाषायां सदवसश्रुवः` (अष्टाध्यायी ३.२.१०८ ) इति सदेर्लिटः क्वसुरादेशः । तैरुपसेदिवद्भिरन्तेवासिभिः शिष्यैः इति यावत् । उरुपदेष्टरि गुराविवेत्युपमा। विनीतमनुद्धतं ववृते वृत्तम् । भावे लिट् । ननु विकासिभक्तिरित्यत्र कथं पूर्वपदस्य पुंवद्भावः । भक्तिशब्दस्य प्रियादिपाठात् `स्त्रियाः पुंवत्-` (अष्टाध्यायी ६.३.३४ ) इति पुंवद्भावसूत्रेऽप्रियादिष्विति निषेधादिति । विकासिशब्दस्याविकासिनीवृत्तिमात्रपरतयाऽस्त्रीत्वस्य विवक्षितत्वान्नपुंसकपूर्वपदो बहुव्रीहिरिति केचित् । तदेतदभिप्रेत्योक्तं वृत्तिकारेण `दृढभक्तिरित्येवमादिषु स्त्रीपूर्वपदस्याविवक्षितत्वात्सिद्धिः` इति । एतदेव स्पष्टीकृतं गणव्याख्याने-`दृढं भक्तिर्यस्येति नपुंसकं पूर्वपदम्, धात्वर्थविशेषणमात्रपरे दृढशब्दे लिङ्गविशेषस्यानुपकारकत्वात्स्त्रीत्वमविवक्षितम्` इति । भोजराजस्तु ` भक्तौ कर्मसाधनाया`मित्यनेन सूत्रेण भज्यते सेव्यते इति कर्मार्थत्वेन&#३२; दृढभक्तिरित्यादि भवति । भावसाधनायां तु दृढभक्तिर्भवत्येव` इत्याह । तदेतत्सर्वमस्माभिः कालिदासत्रयसंजीविन्यां `दृढभक्तिरिति ज्येष्टे` (रघुवंशे १२।१९) इत्यादिषु विवेचितम् । तस्माद्विकासिभक्तिभिरित्यत्रापि मतभेदेन पूर्वपदस्य स्त्रीत्वे नपुंसकत्वे च रूपसिद्धिरस्तीति सिद्धम्
छन्दः
मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ | १३ |
|---|---|---|---|---|---|---|---|---|---|---|---|---|
| मु | दि | तै | स्त | दे | ति | दि | ति | ज | न्म | नां | रि | पा |
| व | वि | नी | य | स | म्भ्र | म | वि | का | सि | भ | क्ति | भिः |
| उ | प | से | दि | व | द्भि | रु | प | दे | ष्ट | री | व | तै |
| र्व | वृ | ते | वि | नी | त | म | वि | नी | त | शा | सि | भिः |
| स | ज | स | ज | ग | ||||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.