मुदितैस्तदेति दितिजन्मनांरिपा-
वविनीयसम्भ्रमविकासिभक्तिभिः
उपसेदिवद्भिरुपदेष्टरीव
तैर्ववृते विनीतमविनीतशासिभ्-
इः

मल्लिनाथः मुदितैरिति ॥ तदा तस्मिन्समये इतीत्थं मुदितैर्हृष्टैरविनीयोऽकल्कः । अकपट इति यावत् । यः संभ्रम आदरस्तेन विकासिनी स्फुटीभवन्ती भक्तिर्येषां तैः । `विपुयविनीयजित्या मुञ्जकल्कहलिषु` (अष्टाध्यायी ३.१.११७ ) इति कल्कार्थे निपातः । नपुंसकपूर्वपदः स्त्रीलिङ्गपूर्वपदो वा बहुव्रीहिः। अविनीतं शासतीत्यविनीतशासिभिः दुष्टशिक्षकैः पाण्डवैः दितिजन्मनां रिपौ कृष्णविषये उप समीपे सीदन्ति स्मेत्युपसेदिवांसोऽन्तेवासिनः । `भाषायां सदवसश्रुवः` (अष्टाध्यायी ३.२.१०८ ) इति सदेर्लिटः क्वसुरादेशः । तैरुपसेदिवद्भिरन्तेवासिभिः शिष्यैः इति यावत् । उरुपदेष्टरि गुराविवेत्युपमा। विनीतमनुद्धतं ववृते वृत्तम् । भावे लिट् । ननु विकासिभक्तिरित्यत्र कथं पूर्वपदस्य पुंवद्भावः । भक्तिशब्दस्य प्रियादिपाठात् `स्त्रियाः पुंवत्-` (अष्टाध्यायी ६.३.३४ ) इति पुंवद्भावसूत्रेऽप्रियादिष्विति निषेधादिति । विकासिशब्दस्याविकासिनीवृत्तिमात्रपरतयाऽस्त्रीत्वस्य विवक्षितत्वान्नपुंसकपूर्वपदो बहुव्रीहिरिति केचित् । तदेतदभिप्रेत्योक्तं वृत्तिकारेण `दृढभक्तिरित्येवमादिषु स्त्रीपूर्वपदस्याविवक्षितत्वात्सिद्धिः` इति । एतदेव स्पष्टीकृतं गणव्याख्याने-`दृढं भक्तिर्यस्येति नपुंसकं पूर्वपदम्, धात्वर्थविशेषणमात्रपरे दृढशब्दे लिङ्गविशेषस्यानुपकारकत्वात्स्त्रीत्वमविवक्षितम्` इति । भोजराजस्तु ` भक्तौ कर्मसाधनाया`मित्यनेन सूत्रेण भज्यते सेव्यते इति कर्मार्थत्वेन&#३२; दृढभक्तिरित्यादि भवति । भावसाधनायां तु दृढभक्तिर्भवत्येव` इत्याह । तदेतत्सर्वमस्माभिः कालिदासत्रयसंजीविन्यां `दृढभक्तिरिति ज्येष्टे` (रघुवंशे १२।१९) इत्यादिषु विवेचितम् । तस्माद्विकासिभक्तिभिरित्यत्रापि मतभेदेन पूर्वपदस्य स्त्रीत्वे नपुंसकत्वे च रूपसिद्धिरस्तीति सिद्धम्
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
मु दि तै स्त दे ति दि ति न्म नां रि पा
वि नी म्भ्र वि का सि क्ति भिः
से दि द्भि रु दे ष्ट री तै
र्व वृ ते वि नी वि नी शा सि भिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.