Loading data... On slow networks this could take a few minutes.
100%

वशिनं क्षितेरयनयाविवेश्वरं
नियमो यमश्च नियतं यतिं यथा ।
विजयश्रिया वृतमिवार्कमारुता-
वनुसस्रतुस्तमथ दस्रयोः सुतौ ॥

मल्लिनाथः वशिनमिति ॥ अथ भीमार्जुनोपवेशनानन्तरं वशिनमिन्द्रियजयवन्तम् । अव्यसनिनमिति यावत् । क्षितीश्वरं भूपतिम् । अयः शुभावहो विधिर्नितिर्नयस्ताविव । देवपुरुषकाराविवेत्यर्थः । नियतमाचारनिष्ठं यतिं जितेन्द्रियम् । `यतिनो यतयश्च ते` इत्यमरः । नियमः शरीरातिरिक्तदेशकालादिसाधनापेक्षः संध्योपासनजपादिः । यमः शरीरमात्रसाधनापेक्षोऽहिंसादिः । `शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः । नियमस्तु स यत्कर्मानित्यमागन्तुसाधनम् ॥` (इत्यमरः) स च यथा यमनियमाविवेत्यर्थः । `इववद्वायथाशब्दाः` इति दण्डिनाभिधानात् । विजयश्रिया युतं आसन्नविजयम् । विजिगीषू रिपुमित्यर्थः । अर्कमारुताविव दस्रयोरश्विनोः सुतौ नकुलसहदेवौ । `नासत्यावश्विनौ दस्रौ` इत्यमरः । तं हरिमनुसस्नतुरनुचेरतुः । पृष्ठोपसर्पणं चक्रतुरित्यर्थः । इह सर्वकर्तृमनोरथानुकूलव्यापारवत्त्वमनुसरणम् । इयं मालोपमा
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
शि नं क्षि ते या वि वे श्व रं
नि मो श्च नि तं तिं था
वि श्रि या वृ मि वा र्क मा रु ता
नु स्र तु स्त स्र योः सु तौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.