Loading data... On slow networks this could take a few minutes.
100%

पवनात्मजेन्द्रसुतमध्यवर्तिना
नितरामरोचि रुचिरेण चक्रिणा ।
दधतेव योगमुभयग्रहान्तर-
स्थितिकारितं दुरुधराख्यमिन्दुना ॥

मल्लिनाथः पवनेति ॥ पवनात्मजेन्द्रसुतमध्यवर्तिना भीमार्जुनमध्यगतेन रुचिरेण चारुणा चक्रिणा हरिणा उभयोरर्कादिग्रहाणामन्यतमयोरन्तरे मध्ये स्थित्या वासेन कारितं संपादितम् । वृत्तिविषये उभशब्दस्य स्थानेऽप्युभयशब्दस्यैव प्रयोगो व्याख्यातः । दुरुधरेत्याख्या यस्य तं दुरुधराख्यं योगं दधता । अर्कान्यग्रहमध्यगतेनेत्यर्थः । इन्दुनेवेत्युपमा । नितरामतिशयेन । `किमेत्तिङव्ययघा-` (अष्टाध्यायी ५.४.११ ) इत्यामुप्रत्ययः । अरोचि अशोभि । रोचतेर्भावे लुङ् । स्वभावरमणीयस्यानुरूपान्तरसमायोगाच्छोभातिशयो जायते । रत्नकाञ्चनयोरिवेति भावः । अत्र भगवानाचार्यमिहिरः-`हित्वार्कं सुनफाऽनफादुरुधराः स्वान्त्योभयस्थैर्ग्रहैः शीतांशोः` (बृहज्जातके १३।३) इति । एतदेव स्पष्टीकृतं कल्याणवर्मणा `रविवर्जं द्वादशगैरनफा चन्द्राद्वितीयगैः सुनफा । उभयस्थितैर्दुरुधरा केमद्रुमसंज्ञिकोऽतोऽन्यः॥` इति
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
ना त्म जे न्द्र सु ध्य र्ति ना
नि रा रो चि रु चि रे क्रि णा
ते यो मु ग्र हा न्त
स्थि ति का रि तं दु रु रा ख्य मि न्दु ना
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.