विकसत्कलायकुसुमासितद्युते-
रलघूडुपाण्डु जगतामधीशितुः ।
यमुनाह्रदोपरिगहंसमण्डल-
द्युतिजिष्णु जिष्णुरभृतोष्णवारणम् ॥

मल्लिनाथः विकसदिति ॥ विकसत्कलायकुसुमं कालपुष्पम् । `कलायः स्यात्काले` इति वैजयन्ती । तद्वदसितद्युतेर्नीलवर्णस्य जगतामधीशितुर्जगन्नाथस्य हरेः जिष्णुरर्जुनः अलघूडुपाण्डु स्थूलनक्षत्रधवलम् अत एव यमुनाहदस्योपरिगमुपरिगतम् । `अन्यत्रापि दृश्यते` (वा०) इति डप्रत्ययः । तस्य हंसमण्डलस्य द्युतिं शोभां जिष्णु जयनशीलम् । `ग्लाजिस्थश्च-` (अष्टाध्यायी ३.२.१३९ ) इति ग्स्नुः । उष्णवारणमातपत्रमभृत भृतवान् । भृञः कर्तरि लुङ् । `स्वरितञितः-` (अष्टाध्यायी १.३.७२ ) इत्यात्मनेपदम् । "उश्च` (अष्टाध्यायी १.२.१२ ) इति सिचः कित्त्वादगुणता `हस्वादङ्गात्` (अष्टाध्यायी ८.२.२७ ) इति सकारलोपः । अत्राप्युपमासंकरः
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
वि त्क ला कु सु मा सि द्यु ते
घू डु पा ण्डु ता धी शि तुः
मु ना ह्र दो रि हं ण्ड
द्यु ति जि ष्णु जि ष्णु भृ तो ष्ण वा णम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.