शनकैरथास्य तनुजालकान्तर-
स्फुरितक्षपाकरकरोत्कराकृति ।
पृथुफेनकूटमिव निम्नगापते-
र्मरुतश्च सूनुरघुवत्प्रकीर्णकम् ॥

मल्लिनाथः शनकैरिति ॥ किंचेति चार्थः । अथास्य हरेस्तनुषु सूक्ष्मेषु जालकान्तरेषु गवाक्षरन्ध्रेषु स्फुरितस्य प्रसृतस्य क्षपाकरकरोत्करस्य शशिकिरणपुञ्जस्याकृतिरिवाकृतिर्यस्य तत्प्रकीर्णकं चामरं निम्नगापतेः समुद्रस्य पृथु विपुलं फेनकूटं फेनपुञ्जमिव मरुतः सूनुर्भीमसेनः शनकैरधुवद्भुवति स्म । धुवतिरयं तौदादिक इत्युक्तम् । उपमयोः संकरः
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
कै था स्य नु जा का न्त
स्फु रि क्ष पा रो त्क रा कृ ति
पृ थु फे कू मि नि म्न गा ते
र्म रु श्च सू नु घु त्प्र की र्ण कम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.