Loading data... On slow networks this could take a few minutes.
100%

रथमास्थितस्य च पुराभिवर्तिन-
स्तिसृणां पुरामिव रिपोर्मुरद्विषः ।
अथ धर्ममूर्तिरनुरागभावितः
स्वयमादित प्रवयणं प्रजापतिः ॥

मल्लिनाथः रथमिति ॥ किंचेति चार्थः (१)। अथ रथारोहणानन्तरं रथमास्थितस्यारूढस्य पुराभिवर्तिन इन्द्रप्रस्थाभिगामिनः, त्रिपुराभिवर्तिनश्च मुरद्विषो हरेस्तिसृणां पुराणां रिपोस्त्रिपुरान्तकस्येव । `न तिसृचतसृ` (अष्टाध्यायी ६.४.४ ) इति नामि दीर्घप्रतिषेधः । धर्ममूर्तिर्धर्मात्मा प्रजाप्रतिर्जनेश्वरो धर्मराजो, ब्रह्मा च अनुरागभावितः सन् । प्रवीयते प्रेर्यतेऽनेनेति प्रवयणं प्राजनम् । प्रतोद इति यावत् । अत एव `प्रवयणो दण्डः प्राजनो दण्डः` इति काशिका । अजेः करणे ल्युट् । `वा यौ` (अष्टाध्यायी २.४.५७ ) इति विकल्पादजेर्वीभावः `पूर्वपदात्संज्ञायाम्-` (अष्टाध्यायी ८.४.३ ) इति णत्वम् । स्वयमादित गृहीतवान् । सारथ्यं कृतवानित्यर्थः । ददातेः कर्तरि लुङि तङ् । `स्थाध्वोः-` (अष्टाध्यायी १.२.१७ ) इतीकारे कृते सिचः कित्त्वे च `हस्वादङ्गात्` (अष्टाध्यायी ८.२.२७ ) इति सलोपः । अन्न त्रिपुरहरणे ब्रह्मा हरस्येव हरेरयं सारथ्यं चकारेत्युपमा । तस्याः प्रजापतिरिति राजब्रह्मणोः श्लेषमूलाभेदाध्यवसायादतिशयोक्तिनिर्यूढतेति
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
मा स्थि स्य पु रा भि र्ति
स्ति सृ णां पु रा मि रि पो र्मु द्वि षः
र्म मू र्ति नु रा भा वि तः
स्व मा दि प्र णं प्र जा तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.