यमुनामतीतमथ शुश्रुवानमु-
मुं तपसस्तनूज इति नाधुनोच्यते ।
स यदाचलन्निजपुरादहर्निशं
नृपतेस्तदादि समचारि वार्तया ॥

मल्लिनाथः यमुनामिति ॥ अथ यमुनातरणानन्तरं तपसस्तनूजो धर्मनन्दनः अधुना यमुनामतीतममुं हरिं शुश्रुवान् । `भाषायां सदवसश्रुवः` (अष्टाध्यायी ३.२.१०८ ) इति क्कसुप्रत्ययः । इति नोच्यते किंतु स हरिर्यदा निजपुरादचलत् तच्चलनमादिर्यस्मिन्कर्मणि तत्तदादि तत्प्रभृति अहश्च निशा चाहर्निशम् । समाहारे द्वन्द्वैकवद्भावे अत्यन्तसंयोगे द्वितीया । नृपतेर्धर्मराजस्य वार्तया इह निविष्ट इतो निर्गत इति वृत्तान्तेन समचारि संचरितम् , आगतमिति यावत् । भावे लुङ् । संनिहितयमुनातरणवृत्तान्तवव्द्यवहितसकलदैनंदिनवृत्तान्तो निजनगरप्रस्थानाव्प्रभृति प्रतिक्षणमागत एवेत्यर्थः । अस्मिन्सर्गे मञ्जुभाषिणी वृत्तम् । `सजसा जगौ भवति मञ्जुभाषिणी` इति लक्षणात्
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
मु ना ती शु श्रु वा मु
मुं स्त नू ति ना धु नो च्य ते
दा न्नि पु रा र्नि शं
नृ ते स्त दा दि चा रि वा र्त या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.