अधिरुह्यतामिति महीभृतोदितः
कपिकेतुनार्पितकरो रथं हरिः ।
अवलम्बितैलविलपाणिपल्लवः
श्रयति स्म मेघमिव मेघवाहनः ॥

मल्लिनाथः अधीति ॥ अथ हरिरधिरुह्यतां रथ आरुह्यतामित्येवं महीभृता धर्मराजेनोदित उक्तः सन् । वदेः कर्मणि क्तः । `वचिस्वपि-` (अष्टाध्यायी ६.१.१५ ) इत्यादिना संप्रसारणम् । कपिकेतुनार्जुनेनार्पितकरो दत्तहस्तः सन् । अवलम्बितोऽवष्टब्ध ऐलविलस्य कुबेरस्य पाणिपल्लवो हस्तो येन स मेघवाहन इन्द्रो मेघमिव रथं श्रयति स्म आरूढवानित्यर्थः । उपमा
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
धि रु ह्य ता मि ति ही भृ तो दि तः
पि के तु ना र्पि रो थं रिः
म्बि तै वि पा णि ल्ल वः
श्र ति स्म मे मि मे वा नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.