Loading data... On slow networks this could take a few minutes.
100%

शिरसि स्म जिघ्रति सुरारिबन्धने
छलवामनं विनयवामनं तदा ।
यशसेव वीर्यविजितामरद्रुम-
प्रसवेन वासितशिरोरुहे नृपः ॥

मल्लिनाथः शिरसीति ॥ नृपो धर्मराजः सुरारिबन्धने पुरा बलिबन्धने छलवामनं&#३२; कपटवामनं तदा पार्थोपपत्तिसमये तु विनयवामनम् । विनयनम्रमित्यर्थः ।तं हरिमिति शेषः । वीर्यविजितामरद्रुमप्रसवेन पारिजातहरणे शौर्यलब्धपारिजातकुसुमेन यशसेव पारिजातविजयप्रसूतया कीर्त्येवेल्युत्प्रेक्षा । वासितशिरोरुहे सुरभितकेशे शिरसि जिघ्रति स्म । `प्रवासादेत्य मूर्धन्यवघ्राणम्` इति स्मरणात् । पुरा किल भगवान्सत्यभामाप्रीतये बलादिन्द्रलोकादपहृत्य पारिजातं निजगृहेष्वारोपितवानिति कथात्रानुसंधेया
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
शि सि स्म जि घ्र ति सु रा रि न्ध ने
वा नं वि वा नं दा
से वी र्य वि जि ता द्रु
प्र वे वा सि शि रो रु हे नृ पः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.