Loading data... On slow networks this could take a few minutes.
100%

गतया निरन्तरनिवासमध्युरः
परिनाभि नूनमवमुच्य वारिजम् ।
कुरराजनिर्दय निपीडनाभया-
न्मुखमध्यरोहि मुरविद्विषः श्रिया ॥

मल्लिनाथः गतयेति ॥ नाभ्यां परिनाभि । विभक्त्यर्थेऽव्ययीभावः । वारिजम् । नाभिकमलमित्यर्थः । अवमुच्य विहाय अध्युर उरसि । विभक्त्यर्थेऽव्ययीभावः । निरन्तरं निवासं गतया सर्वदोरसि स्थितया श्रिया शोभया, रमया च नाभिसरोजत्यागेनात्र निवासेन तस्मादपहृतमिति ध्वनितम् । कुरुराजस्य या निर्दयनिपीडना गाढाश्लेषरूपा ततो भयान्मुरवैरिणो मुरद्विषो मुखमध्यरोहि अधिरूढम् । भीता ह्युत्सेधमारोहन्तीति लोकवेदयोः प्रसिद्धमिति भावः । नूनमित्युत्प्रेक्षा । अत्र वाच्यायाः सुहृदाश्लेषप्रभवायाः शोभायाः श्रियेति श्लेषमहिम्ना प्रतीयमानया रमया सहाभेदाध्यवसायात्क्रमेण नाभिमुखकमलाधारसंबन्धाभिधानाच्छेषमूलातिशयोत्युत्थापितः तावदाद्यः पर्यायभेदः । "क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि । एकस्मिन्नथ वानेकं पर्यायालंकृतिर्मता ॥” इति लक्षणात् । तदुपजीविना च श्रीमुखारोहणस्य भयहेतुकत्वकथनादुत्प्रेक्षेत्यनयोरङ्गाङ्गिभावेन संकरः
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
या नि न्त नि वा ध्यु रः
रि ना भि नू मु च्य वा रि जम्
कु रा नि र्द नि पी ना या
न्मु ध्य रो हि मु वि द्वि षः श्रि या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.