Loading data... On slow networks this could take a few minutes.
100%

सुखवेदनाहृषितरोमकूपया
शिथिलीकृतेऽपि वसुदेवजन्मनि ।
कुरुभर्तुरङ्गलतया न तत्यजे
विकसत्कदम्बनिकुरम्बचारुता ॥

मल्लिनाथः सुखेति ॥ वसुदेवाज्जन्म यस्य तस्मिन्वसुदेवजन्मनि वासुदेवे । जन्मोत्तरपदत्वाव्द्यधिकरणो बहुव्रीहिः वामनवचनादित्युक्तं प्राक् । शिथिलीकृतेऽपि विश्ले. पिते सत्यपि सुखवेदनया आलिङ्गनसुखानुभवेन हृषिता उद्गता रोमकूपा रोममूलानि यस्यां तया । `हृषेर्लोमसु` (अष्टाध्यायी ७.२.२९ ) इतीडागमः। कुरुभर्तुर्धर्मराजस्याङ्गलतया विकसतः कदम्बनिकुरम्बस्य कदम्बमुकुलजालस्य चारुता कमनीयत्वं न तत्यजे न त्यक्ता । किंतु स्वीकृतेत्यर्थः । आश्लेषापगमेऽपि तज्जन्मसुखानुवृत्या तत्कार्यस्य रोमहर्षस्यानुवृत्तिरिति तात्पर्यार्थः । अत एव शिथिलीकृते हृषितरोमकूपयेत्यकारणकार्यकथनाद्विभावना तदपेक्षया चेयमुत्पन्ना कदम्बनिकुरम्बचारुतानिदर्शनतया सहाङ्गेन संकीर्यते
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
सु वे ना हृ षि रो कू या
शि थि ली कृ ते ऽपि सु दे न्म नि
कु रु र्तु ङ्ग या त्य जे
वि त्क म्ब नि कु म्ब चा रु ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.