Loading data... On slow networks this could take a few minutes.
100%

न ममौ कपाटतटविस्तृतं तनौ
मुरवैरिमवक्ष उरसि क्षमाभुजः ।
भुजयोस्तथापि युगलेन दीर्घयो-
र्विकटीकृतेन परितोऽभिषस्वजे ॥

मल्लिनाथः नेति ॥ कपाटतटविस्तृतं विशालं मुरवैरिणो हरेः वक्षः, तनावल्पे क्षमाभुजो धर्मराजस्योरसि न ममौ । न परिमितमित्यर्थः । तथापि विकटीकृतेन विपुलीकृतेन दीर्घयोर्भुजयोर्युगलेन युग्मेन परितः समन्तादभिषस्वजे आलिङ्गितम् । वक्षसा भुजाभ्यां च कथंचित्परिच्छिन्नमभून्न तु वक्षसैवेत्यर्थः । `सदिस्वञ्जोः परस्य लिटि` इति धातुसकारस्य पत्वनिषेधात्स्थादित्वेऽप्यभ्यासस्यैव पत्वम् । अत्र हरिवक्षसो वैपुल्यादतिशयद्योतनाय नृपवक्षःसंमानेऽप्यसंमानोक्तेः संबन्धेऽसंबन्धरूपातिशयोक्तिश्च । अनयोश्च स्वतःसिद्धकविप्रौढोक्तिसिद्धयोरप्यतिशययोरभेदाध्यवसायादुत्थापनमिति रहस्यम्
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
मौ पा वि स्तृ तं नौ
मु वै रि क्ष सि क्ष मा भु जः
भु यो स्त था पि यु ले दी र्घ यो
र्वि टी कृ ते रि तो ऽभि स्व जे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.