मुकुटांशुरञ्जितपरागमग्रतः
स न यावदाप शिरसा महीतलम् ।
क्षितिपेन तावदनपेक्षितक्रमं
भुजपञ्जरेण रभसादगृह्यत ॥

मल्लिनाथः मुकुटेति ॥ स हरिः मुकुटांशुभी रञ्जितः स्ववर्णमापादितः परागो रेणुर्यस्य तदग्रतः पुरतो महीतलं शिरसा यावन्नाप । नास्पृशदित्यर्थः । तावत्क्षितिपेन धर्मराजेनानपेक्षितक्रमं अनपेक्षितः क्रमः परिपाटी यस्मिन्कर्मणि तत्तथा । भुजाभ्यामेव पञ्जरेणेति रूपकम् । रभसाद्वेगादगृह्यत गृहीतः । प्रणामक्रियासमाप्तेः प्रागेवोत्थाप्याश्लिषदित्यर्थः
छन्दः मञ्जुभाषिणी [१३: सजसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
मु कु टां शु ञ्जि रा ग्र तः
या दा शि सा ही लम्
क्षि ति पे ता पे क्षि क्र मं
भु ञ्ज रे सा गृ ह्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.