सीमन्त्यमाना यदुभूभृतां बलैर्बभौ तरिद्भिर्गवलासितद्युतिः । सिन्दूरितानेकपकङ्गणाङ्किता तरङ्गिणी वेणिरिवायता भुवः ॥
सीमन्त्यमाना यदुभूभृतां बलैर्बभौ तरिद्भिर्गवलासितद्युतिः । सिन्दूरितानेकपकङ्गणाङ्किता तरङ्गिणी वेणिरिवायता भुवः ॥
मल्लिनाथः
सीमन्त्यमानेति ॥ तरद्भिः यदुभूभृतां यादवभूपानां बलैः सैन्यैः सीमन्त्यमाना सीमन्तवती क्रियमाणा । सीमन्तवच्छब्दात् `तत्करोति-` (ग०) इति ण्यन्तात्कर्मणि लटः शानजादेशः । णाविष्ठवद्भावाद्विन्मतोर्लुक् । गवलासितद्युतिः माहिषविषाणमेचकप्रभा । `गवलं माहिषं शृङ्गम्` इत्यमरः । सिन्दूरिताः सिन्दूरवत्कृताः । सिन्दूरशब्दात् `तत्करोति-` (ग०) इति ण्यन्तात्कर्मणि क्तः । णाविष्ठवद्भावाद्विन्मतोर्लुक् । तैरनेकपैर्द्विपैरेव कंकणैः शेखरैः अङ्किता चिह्निता । `कंकणं शेखरे हस्तसूत्रमण्डनयोरपि` इति विश्वः । तरङ्गिणी यमुना नदी आयता दीर्घा भुवो वेणिरिव बभौ इत्युत्प्रेक्षा
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.