तीर्त्वा जनेनैव नितान्तदुस्तरां नदीं प्रतिज्ञामिव तां गरीयसीम् । शृङ्गैरपस्कीर्णमहत्तटीभुवामशोभतोच्चैर्नदितं ककुद्मताम् ॥

मल्लिनाथः तीर्त्वेति ॥ नितान्तदुस्तरामतिमहत्तयात्यन्ताशक्यतरणां तां नदीं गरीयसीमतिदुस्तरां प्रतिज्ञामिव प्रतिज्ञावचनमिव जवेन वेगेनैव तीर्त्वा शृङ्गैर्विषाणैरपस्कीर्णा आलेखिता महत्यस्तटीभुवस्तीरप्रदेशा यैस्तेषाम् । `अपाच्चतुष्पाच्छकुनिष्वालेखने` (अष्टाध्यायी ६.१.१४२ ) इति किरतेः कात्पूर्वतः सुडागमः । ककुद्मतामुच्चैस्तरं नदितं नादः अशोभत । उपमासंकीर्णा स्वभावोक्तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.