Loading data... On slow networks this could take a few minutes.
100%

अव्याहतक्षिप्रगतैः समुच्छ्रि-
ताननुज्झितद्रामबिर्गरीयसः ।
नाव्यं पयःकेचिदतारिषुर्भु-
जैः क्षिपद्भिरूर्मीनपरैरिवोर्मिभिः ॥

मल्लिनाथः अव्याहतेति ॥ अत्रोर्मीणां भुजानां विशेषणान्युभयविपरिणामेन योज्यानि । केचिज्जनाः नावा तार्यं नाव्यम् । `नाव्यं त्रिलिङ्गं नौतार्ये` इत्यमरः । `नौवयोधर्म-` (अष्टाध्यायी ४.९.९१ ) इत्यादिना यत्प्रत्ययः । पयो जलं अव्याहतक्षिप्रगतैरप्रतिहतशीघ्रगमनैरनुज्झितो द्राघिमा दैर्घ्यं यस्तैः । अतिदीर्घैरित्यर्थः । समुच्छ्रितानुन्नतान् गरीयसो गुरुतरानूर्मीन्क्षिपद्भिरपाकुर्वद्भिरत एवापरैरूर्मिभिरिव स्थितैरित्युत्प्रेक्षा । भुजैर्बाहुभिरतारिषुस्तरन्ति स्म । तरेर्लुङि सिचि वृद्धिरिडागमश्च
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३
व्या क्षि प्र तैः मु च्छ्रि
ता नु ज्झि द्रा बि र्ग री सः
ना व्यं यः के चि ता रि षु र्भु
जैः क्षि द्भि रू र्मी रै रि वो र्मि भिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.