प्रोथैः स्फुरद्भिः स्फुटशब्दमुन्मुखैस्तुरङ्गमैरायतकीर्णवालधि । उत्कर्णमुद्वाहितधीरकन्धरैरतीर्यताग्रे तटदत्तदृष्टिभिः ॥
प्रोथैः स्फुरद्भिः स्फुटशब्दमुन्मुखैस्तुरङ्गमैरायतकीर्णवालधि । उत्कर्णमुद्वाहितधीरकन्धरैरतीर्यताग्रे तटदत्तदृष्टिभिः ॥
मल्लिनाथः
प्रोथैरिति ॥ स्फुटशब्दं स्पष्टध्वानं यथा तथा स्फुरद्भिश्चलद्भिः प्रोथैर्घोणामिरुपलक्षितैः । `घोणा तु प्रोथमस्त्रियाम्` इत्यमरः । उन्मुखैरूर्ध्वमुखैस्तथा उत्कर्णमुन्नमितकर्णं यथा तथा उद्वाहिता ऊर्ध्वं प्रसारिता धीरा निश्चलाः कंधरा ग्रीवा येषां तैरग्रे पुरः तटे दत्तदृष्टिभिस्तुरंगमैरायताः प्रसारिताः कीर्णा विक्षिप्ता वालधयो यस्मिन्कर्मणि तद्यथा तथाऽतीर्यत अतारि । सरिदिति शेषः । कर्मणि लङि यक् । स्वभावोक्तिः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.