तत्पूर्वमंसद्वयसं द्विपाधिपाः क्षणं सहेलाः परितो जगाहिरे । सद्यस्ततस्तेरुरनारतस्रुतस्वदानवारिप्रचुरीकृतं पयः ॥
तत्पूर्वमंसद्वयसं द्विपाधिपाः क्षणं सहेलाः परितो जगाहिरे । सद्यस्ततस्तेरुरनारतस्रुतस्वदानवारिप्रचुरीकृतं पयः ॥
मल्लिनाथः
तत्पूर्वमिति ॥ द्विपाधिपा महागजाः पूर्वं प्रथमं अंसौ प्रमाणमस्यांसद्वयसमंसप्रमाणम् । तेषां तथोन्नतत्वादिति भावः । `प्रमाणे द्वयसज्-` (अष्टाध्यायी ५.२.३७ ) इति द्वयसच्प्रत्ययः । तत्तथा गम्भीरं पयो यमुनाजलं सहेला: सावज्ञाः परितो, जगाहिरे प्रविशन्ति स्म । ततः प्रवेशानन्तरं सद्योऽविलम्बेन अनारतमविच्छिन्नं स्रुतेन स्रवता स्वदानवारिणा स्वमदोदकेन प्रचुरीकृतं बहुलीकृतं तत्पयस्तेरुः तरन्ति स्म । अनातिगम्भीरस्याप्यम्भसोंऽसदघ्नत्वातिशयोक्त्या गजानामौन्नत्यं पुरस्तस्यैव तन्मदाम्बुसंभेदतात्पर्योक्त्या तेषां मदातिरेकश्च व्यज्यते
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.