अह्नाय यावन्न चकार भूयसे निषेदिवानासनबन्धमध्वने । तीव्रोत्थितास्तावदसह्यरंहसो विशृङ्खलं शृङ्खलकाः प्रतस्थिरे ॥
अह्नाय यावन्न चकार भूयसे निषेदिवानासनबन्धमध्वने । तीव्रोत्थितास्तावदसह्यरंहसो विशृङ्खलं शृङ्खलकाः प्रतस्थिरे ॥
मल्लिनाथः
अह्नायेति ॥ निषेदिवानुपर्युपविष्टः । निषादीति शेषः । `भाषायां सदवसश्रुवः` (अष्टाध्यायी ३.२.१०८ ) इति क्वसुप्रत्ययः । भूयसे दवीयसे अध्वने । भूयांसमध्वानं गन्तुमित्यर्थः । `क्रियार्थोपपदस्य-` (अष्टाध्यायी २.३.१४ ) इति चतुर्थी । अह्नाय झटिति । `द्राक् झटित्यञ्जसाह्नाय` इत्यमरः । यावदासनबन्धं दूराध्वगमनौपयिकमासनविशेषं न चकार तावत्तीव्रं तीक्ष्णमुत्थिता असह्यरंहसो दुःसहवेगाः शृङ्खलकाः करभा उष्ट्रभेदाः । `करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः` इत्यमरः । विशृङ्खलमनर्गलं प्रतस्थिरे प्रस्थिताः । `समवप्रविभ्यः स्थः (अष्टाध्यायी १.३.२२ ) इत्यात्मनेपदम् । एषापि स्वभावोक्तिः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.