गण्डोज्वलामुज्ज्वनाभिचक्रया
विराजमानां नवयोदरश्रिया ।
कश्चित्सुखं प्राप्तुमनाः सुसारथी
रथीं युयोजाधिधुरां वधूमिव ॥
गण्डोज्वलामुज्ज्वनाभिचक्रया
विराजमानां नवयोदरश्रिया ।
कश्चित्सुखं प्राप्तुमनाः सुसारथी
रथीं युयोजाधिधुरां वधूमिव ॥
विराजमानां नवयोदरश्रिया ।
कश्चित्सुखं प्राप्तुमनाः सुसारथी
रथीं युयोजाधिधुरां वधूमिव ॥
मल्लिनाथः
गण्डेति ॥ सुखमक्लिष्टं यथा तथा प्राप्तुं गन्तुं मनो यस्य स प्राप्तुमनाः, अन्यत्र सुखमानन्दं लब्धुकामः । `तुं काममनसोरपि` इति मकारलोपः । शोभनः सारथिर्यस्य स सुसारथिः, अन्यत्र सुसहायवान् । कश्चित्कोऽपि रथी, कामी च । गण्डैश्चिह्नैरुज्ज्वलाम्, अन्यत्र कपोलोज्ज्वलाम् । `गण्डः कपोले चिह्ने च` इति विश्वः । उज्ज्वलो नाभिर्बिलमध्यं ययोस्ते चक्रे रथाङ्गे यस्यास्तयोज्ज्वलनाभिचक्रया, अन्यत्रोज्ज्वलं नाभिचक्रं नाभिमण्डलं यस्यास्तया । `नाभिः प्राण्यङ्गके क्षेत्रे चक्राङ्गचक्रवर्तिनोः` इति विश्वः । नवया प्रत्यग्रया उदुन्नता अराश्चक्रशलाकाः । `अरः शीघ्रे च चक्राङ्गे` इति विश्वः । तेषां श्रिया, अन्यत्र उदरस्य मध्यस्य श्रिया शोभया विराजमानां विगता धूरग्रं यस्याः सा विधुरा । `धूः स्त्री क्लीबे यानमुखम्` इत्यमरः । `ऋक्पू:-` (अष्टाध्यायी ५.४.७४ ) इत्यादिना समासान्तः । सा न भवतीत्यविधुरा ताम् । सधुरामित्यर्थः । अन्यत्राविधुरामविकलां रथीं शकटीम् । `बह्वादिभ्यश्च` (अष्टाध्यायी ४.१.४५ ) इति विकल्पेन ङीष् । वधूमिव युयोज योजयामास । अत्र शब्दमात्रसाधर्म्यात्सभङ्गाभङ्गपदमिश्रणादुभयगोचरत्वाच्च प्रकृताप्रकृतगोचरागोचरः शब्दार्थश्लेषः
छन्दः
वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
|---|---|---|---|---|---|---|---|---|---|---|---|
| ग | ण्डो | ज्व | ला | मु | ज्ज्व | ना | भि | च | क्र | या | |
| वि | रा | ज | मा | नां | न | व | यो | द | र | श्रि | या |
| क | श्चि | त्सु | खं | प्रा | प्तु | म | नाः | सु | सा | र | थी |
| र | थीं | यु | यो | जा | धि | धु | रां | व | धू | मि | व |
| ज | त | ज | र | ||||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.