स्वैरं कृतास्फालनललितान्पुरः स्फुरत्नून्दर्शितलाघवक्रियाः । वङ्गावलग्नैकसवल्गपाणयस्तुरङ्गमानारुरुहुस्तुरङ्गिणः ॥

मल्लिनाथः स्वैरमिति ॥ तुरंगिणोऽश्वारोहाः पुरः पूर्वं स्वैरं मन्दं कृतं यदास्फालनं पाणितलेनाङ्गसंघट्टनं तेन लालिताननुपालितान् । त्याजितोद्वेगानित्यर्थः । अत एव स्फुरत्तनून् कम्पितदेहांस्तुरंगमानश्वान् दर्शितं लाघवं शैघ्र्यं यासु ताः क्रिया उत्पतनकर्माणि येषां ते । वङ्कः पल्याणकोटिः । `वङ्कः पल्याणभागे स्यात्` इति विश्वः । तत्रावलग्नः सक्त एकैकः सवल्गो मुखरज्जुसहितः पाणिः येषां ते तथोक्ताः सन्त आरुरुहुरारूढाः । स्वभावोक्तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.