Loading data... On slow networks this could take a few minutes.
100%

व्यक्तं बलीयान्यदि हेतुरागमादपूरयत्सा जलधिं न जाह्नवी । गङ्गौघनिर्भस्मितशम्भुकन्धरासवर्णमर्णः कथमन्यथास्य तत् ॥

मल्लिनाथः व्यक्तमिति ॥ हेतुर्युक्तिः । अनुमानमिति यावत् । आगमात् `गङ्गा सागरपूरिणी` इत्यागमप्रमाणात् । बलीयान् यदि प्रबलश्चेत् सा यमुना जलधिमपूरयत् । जह्नोरपत्यं स्त्री जाह्नवी नापूरयत्, व्यक्तं सत्यमित्युत्प्रेक्षा । कुतः । अन्यथा विपर्यये अस्य जलधेः तत्प्रसिद्धमर्णोऽम्भः । `अम्भोऽर्णस्तोयपानीयम्` इत्यमरः । गाङ्गेन&#३२; गङ्गासंबन्धिना ओघेन प्रवाहेण निर्भस्मितायाः निर्भस्मीकृतायाः शंभुकंधराया हरकण्ठस्य सवर्णं समानवर्णम् । कृष्णवर्णमित्यर्थः । कथं स्यात्, न स्यादेव। `ज्योतिर्जनपद-` (६।३८५) इत्यादिना समानस्य सभावः । अन्यथा गङ्गौघस्य धावल्याद्धवलमेव स्यात् । तथा च ग्रावाप्लवनवाक्यवदागमोऽप्यन्यथा नेय इति कवेराशयः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.