यस्या महानीलतटीरिव द्रु-
ताः प्रयान्ति पीत्वा हिमपिण्डपाण्डुराः ।
कालीरपास्ताभिरिवानुरञ्जि-
ताः क्षणेन भिन्नाञ्जनवर्ता घनाः ॥

मल्लिनाथः यस्या इति ॥ हिमपिण्डपाण्डुरा हिमसङ्घशुभ्राः घना मेघाः द्रुता द्रवीकृता महानीलतटीरिन्द्रनीलस्थलानीव कालीः कृष्णवर्णाः । `जानपद-` (अष्टाध्यायी ४.१.४२ ) इत्यादिना ङीप् । यस्याः कालिन्द्या अपः पीत्वा ताभिः पीताभिरभिरनुरञ्जिता इव क्षणेन भिन्नाञ्जनवर्णतां स्नेहमृदितकज्जलवर्णतां प्रयान्ति । अत्र तटीरिवानुरञ्जिता इवेति चोत्प्रेक्षया संकीर्णेयं घनानामञ्जनोपमेति संग्रहः
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३
स्या हा नी टी रि द्रु
ताः प्र या न्ति पी त्वा हि पि ण्ड पा ण्डु राः
का ली पा स्ता भि रि वा नु ञ्जि
ताः क्ष णे भि न्ना ञ्ज र्ता नाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.